तोटकाष्टकम | Totakaashtakam

तोटकाष्टकम | Totakaashtakam

तोटकाष्टकम

तोटकाष्टकम Totakaashtakam

Lyrics:


विदिताखिलशास्त्रसुधाजलधे

महितोपनिषत् कथितार्थनिधे

हृदये कलये विमलं चरणं

भव शङ्कर देशिक मे शरणम् 1

 

करुणावरुणालय पालय मां

भवसागरदुःखविदूनहृदम् ।

रचयाखिलदर्शनतत्त्वविदं

भव शङ्कर देशिक मे शरणम् ॥ 2 ॥

 

भवता जनता सुहिता भविता

निजबोधविचारण चारुमते

कलयेश्वरजीवविवेकविदं भव

शङ्कर देशिक मे शरणम् 3

 

भव एव भवानिति मे नितरां

समजायत चेतसि कौतुकिता ।

मम वारय मोहमहाजलधिं

भव शङ्कर देशिक मे शरणम् ॥ 4 ॥

 

सुकृतेऽधिकृते बहुधा भवतो

भविता समदर्शनलालसता

अतिदीनमिमं परिपालय मां

भव शङ्कर देशिक मे शरणम् 5

 

जगतीमवितुं कलिताकृतयो

विचरन्ति महामहसश्छलतः ।

अहिमांशुरिवात्र विभासि गुरो

भव शङ्कर देशिक मे शरणम् ॥ 6 ॥

 

गुरुपुङ्गव पुङ्गवकेतन ते

समतामयतां नहि कोऽपि सुधीः

शरणागतवत्सल तत्त्वनिधे

भव शङ्कर देशिक मे शरणम् 7

 

विदिता मया विशदैककला

किञ्चन काञ्चनमस्ति गुरो

द्रुतमेव विधेहि कृपां सहजां

भव शङ्कर देशिक मे शरणम् 8

भव शङ्कर देशिक मे शरणम् ॥

भव शङ्कर देशिक मे शरणम् ॥

भव शङ्कर देशिक मे शरणम् ॥

भव शङ्कर देशिक मे शरणम् ॥

भव शङ्कर देशिक मे शरणम् ॥


 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top